|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.250. अध्यायः 250
Mahabharata - Vana Parva - Chapter Topics
दुर्योधनेन कर्णंप्रतिस्वबन्धनविषये चित्रसेनार्जुनसंवादप्रकारकथनपूर्वकं युधिष्ठिरात्स्वस्य यन्धमोचनकथनम् ॥ 1 ॥ तथा प्रायोपवेशने निजाध्वसायकथनपूर्वकं दुःशासनंप्रति राज्यपालनविधानम् ॥ 2 ॥ कर्णेन दुर्योधनंप्रति प्रायोपवेशनान्निवर्तनाय सान्त्वोक्तिः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
दुर्योधन उवाच। 3-250-0x(2614)(25616)
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा।
इदं वचनमक्लीवमब्रवीत्परवीरहा ॥ 3-250-1(25617)
भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम।
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु ॥ 3-250-2(25618)
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना।
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ॥ 3-250-3(25619)
`स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः'
द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति ॥ 3-250-4(25620)
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा।
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः ॥ 3-250-5(25621)
युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः।
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥ 3-250-6(25622)
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः।
युधिष्ठिरस्योपहृतः किंनु दुःखमतः परम् ॥ 3-250-7(25623)
ये मे निराकृता नित्यं रिपुर्येषामहं सदा।
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम् ॥ 3-250-8(25624)
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे।
श्रेयस्तद्भविता मह्यं नैवंभूतस्य जीवितम् ॥ 3-250-9(25625)
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्।
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः ॥ 3-250-10(25626)
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः।
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्।
भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति ॥ 3-250-11(25627)
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये।
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ 3-250-12(25628)
न ह्यहं संप्रयास्यामि पुरं शत्रुनिराकृतः।
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥ 3-250-13(25629)
`कामं रणशिरस्यद्य शत्रुभिर्वै विमानितः'।
स सुहृच्छोकदो जातः शत्रूणां हर्वर्धनः।
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ 3-250-14(25630)
भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा।
बाह्लीकः सौमदत्तिश्च ये चान्ये वृद्धसंमताः ॥ 3-250-15(25631)
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः।
किं मां वक्ष्यंति किं चापि प्रतिवक्ष्यामि तानहं ॥ 3-250-16(25632)
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि।
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ 3-250-17(25633)
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च।
तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः ॥ 3-250-18(25634)
अहो वत यथेदं मे कष्टं दुश्चरितं कृतम्।
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम् ॥ 3-250-19(25635)
तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम्।
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ 3-250-20(25636)
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः।
पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः ॥ 3-250-21(25637)
वैशम्पायन उवाच। 3-250-22x(2615)
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्।
दुःशासन निबोधेदं वचनं मम भारत ॥ 3-250-22(25638)
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव।
प्रशाधि पृथिवीं स्फीतांकर्णसौबलपालिताम् ॥ 3-250-23(25639)
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा।
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम् ॥ 3-250-24(25640)
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः।
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ 3-250-25(25641)
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा।
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ 3-250-26(25642)
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्।
कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह ॥ 3-250-27(25643)
तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत्।
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ॥ 3-250-28(25644)
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः।
कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ॥ 3-250-29(25645)
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्।
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ॥ 3-250-30(25646)
विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत्।
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ 3-250-31(25647)
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत्।
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ 3-250-32(25648)
न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम्।
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह ॥ 3-250-33(25649)
`शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः'
त्वमेव नःकुलेराजा भविष्यसि शतं समाः ॥ 3-250-34(25650)
एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह।
पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ 3-250-35(25651)
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ।
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ 3-250-36(25652)
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव।
न शोकः शोचमानस्य विनिवर्तेत कर्हिचित् ॥ 3-250-37(25653)
यदा च शोचतः शोकोव्यसनं नापकर्षति।
सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः ॥ 3-250-38(25654)
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः।
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ॥ 3-250-39(25655)
नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः।
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ 3-250-40(25656)
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम्।
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ॥ 3-250-41(25657)
`तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप'।
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ 3-250-42(25658)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-250-9 एवंभूतस्य जीवितं न श्रेय इति संबन्धः ॥ 3-250-16 श्रेणिमुख्याः शिल्पिसंघातमुख्याः प्रकृतय इत्यर्थः ॥ 3-250-24 विस्रब्वं सविश्वासं यथा स्यात्तथा ॥ 3-250-27 कर्णं चैनं परिष्वज्येति ध. पाठः ॥ 3-250-32 हिमवांश्च परिप्लवेत् इति थ. पाठः। परिव्रजेत् इति झ. पाठः ॥ 3-250-38 यदि शोकेन व्यसनं नश्येत्तर्हि स कर्तव्यः नतु तत्तथास्ति अतः शोको न कर्तव्य इत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|